Saturday, June 28, 2014

~ मङ्गलगीतम् ~ (श्रीजयदेवविरचित)



~ मङ्गलगीतम् ~

 

श्रितकमलाकुचमण्डल धृतकुण्डल ए । 

कलितललितवनमाल जय जय देव हरे ॥ १ ॥





लक्ष्मीजीके कुचकुम्भोंका आश्रय करनेवाले, कुण्डलधारी और अति मनोहर वनमालाधारी हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ १ ॥


दिनमणिमण्डलमण्डन भवखण्डन ए ।

मुनिजनमानसहंस जय जय देव हरे ॥ २ ॥


सूर्यमण्डलको सुशोभित करनेवाले, भवभयके नाशक और मुनियोंके मनरुप सरोवरके हे हंस हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ २ ॥


कालिविषधरगञ्जन ए ।

यदुकुलनलिनदिनेश जय जय देव हरे ॥ ३ ॥


 

कालियानागका दमन करनेवाले, भक्तोंको आनन्दित करनेवाले एवं यदुकुलकमलदिवाकर हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ३ ॥


मधुमुरनरकविनाशन गरुडासन ए ।

सुरकुलकेलिनिदान जय जय देव हरे ॥ ४ ॥


 

मधु मुर और नरकासुरके संहारकर्ता, गरुडवाहन, देवताओंकि क्रीडाके आश्रय हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ४ ॥


अमलकमलदललोचन भवमोचन ए ।

त्रिभुवनभवननिधान जय जय देव हरे ॥ ५ ॥


 

निर्मल कमलदलके समान नेत्रोंवाले, भवबन्धनको काटनेवाले एवं त्रिभुवनके आश्रयभूत हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ५ ॥


जनकसुताकृतभूषण जितदूषण ए ।

समरशमितदशकण्ठ जय जय देव हरे ॥ ६ ॥


 

सीताके साध शोभा पानेवाले, दूषण दैत्यको जीतनेवाले और युद्धमें रावणको मारनेवाले हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ६ ॥


अभिनवजलसुन्दर धृतमन्दर ए ।

श्रीमुखचन्द्रचकोर जय जय देव हरे ॥ ७ ॥


 

नवीन मेघके समान श्यामसुन्दर, मन्दराचलको धारण करनेवाले और लक्ष्मीजीके मुखचन्द्रके लिये चकोररुप हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ७ ॥


तव चरणे प्रणता वयमिति भावय ए ।

कुरु कुशलं प्रणतेषु जय जय देव हरे ॥ ८ ॥


 

आपके चरणोंकी हम शरण लेते हैं, आप भी इधर दयादृष्टि कीजिये और हम शरणागतोंका कल्याण कीजिये । हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ८ ॥


श्रीजयदेवकवेरुदितमिदं कुरुते मुदम् ।

मङ्गलमञ्जुलगीतं जय जय देव हरे ॥ ९ ॥

 

इति श्रीजयदेवविरचितं मङ्गलगीतं सम्पूर्णम् ।



इस प्रकार श्रीजयदेव कविका बनाया यह मंगलमय मधुर गीत भक्तोंको आनन्द देनेवाला है । हे देव ! हे हरे ! आपकी जय हो, जय हो ॥ ९ ॥ 




Sunday, September 16, 2012

भज गोविन्दं भज गोविन्दं - Bhaj Govindam - M.S.Subbulakshmi






भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढ़मते ।
संप्राप्ते सन्निहित काले नहि नहि रक्षति दुकृञ करणे' ॥

Worship Govinda, worship Govinda,
Worship Govinda, O' foolish one!
Rules of grammar profit nothing
Once the hour of death draws nigh.

मूढ़ जहीहि धनागम तृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ १

Remember, O' fool, your ceaseless thirst
For hoarding gold and precious gems;
Content yourself with what may come
Through deeds performed in earlier lives;
Devote your mind to righteousness
And let dispassion be your law. (1)

नारी-स्तनभर-नाभीदेशं दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांस-वसादि-विकारं मनसि विचिन्तय वारं वारम् ॥ २

Lust at the sight of a woman's body
Springs from ignorance, springs from errors;
Inwardly reason, over and over,
Bodies are flesh and blood and fat. (2)

नलिनी-दल-गत-जल-मतितरलं तद्वज्जीवित-मतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ ३

Uncertain is the life of man
As rain-drops on a lotus leaf;
The whole of humankind is prey
To grief and ego and disease. (3)

यावद्वित्तोपार्जनसक्त- स्तावन्निज-परिवारो रक्तः
पश्चाज्जीवति जर्जरदेहे वार्ता कोऽपि न पृच्छति गेहे ॥ ४

While a man supports his family,
See what loving care they show!
But when his aging body falters,
Nearing the time of dissolution,
None not even his nearest kin,
Will think to ask him how he fares. (4)

यावत्पवनो निवसति देहे तावत् पृच्छति कुशलं गेहे ।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥ ५

While man's soul remains in his body,
Fondly his family wish him well;
But when the life-breath leaves its dwelling,
Even his wife will flee in fear. (5)

अर्थ-मनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ ६

Remember, riches bring in grief:
Truly, no joy abides in them.
A rich man even fears his son:
This is the position everywhere.  (6)

बालस्तावत् क्रीडासक्त स्तरुणस्तावत् तरुणीसक्तः ।
वृद्धस्ताव-च्चिन्ता-सक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७

Lost in play is the carefree stripling
Lost in his sweetheart's charms, the youth;
The old man broods upon his sorrows;
None there is, alas whose spirit
Yearns to be lost in the Parabrahman. (7)

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
कस्य त्वं वा कुत आयात- स्तत्त्वं चिन्तय तदिह भ्रातः ॥ ८

Who is your wife? And who your child?
Strange, indeed is this mortal world!
Who are you? And who is your own?
Where is the region whence you come?
Brother, ponder on these things. (8)

सत्संगत्वे निस्संगत्वं निस्संगत्वे निर्मोहत्वम् ।
निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्तवे जीवनमुक्तिः ॥ ९

Good association breeds detachment;
Detachment leads to freedom from delusion;
Un-deluded, one contacts changeless Reality;
Contact with Reality bestows Liberation-while-alive. (9)

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो ज्ञते तत्त्वे कः संसारः ॥ १०

Youth being fled, what good is passion?
Water gone, what use a lake?
Where to be found our friends and kins-men
Once the money's all exhausted?
Where is the world, when Truth is known? (10)

मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात् कालः सर्वम् ।
मायामयमिद-मखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११

Boast not of youth or friends or wealth;
Swifter than eyes can wink, by Time
Each one of these is stolen away.
Abjure the illusion of the world
And join yourself to timeless Truth. (11)

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायु- स्तदपि न मुंचत्याशावायुः ॥ १२

Sunrise and sunset, daylight and darkness
Winter and springtime, come and go;
Even the course of time is playful;
Life itself soon ebbs away;
But man's vain hope, alas! goes onward,
Tirelessly onward even-more. (12)

द्वादशमंजरिकाभिरशेषः कथितो वैयाकरणस्यैषः ।
उपदेशोऽभूद्विद्यानिपुणैः श्रीमच्छंकरभगवच्चरणैः ॥ १३

Through this bouquet of a dozen verses
Was imparted succinctly to a grammarian
Instruction supreme by the all-knowing
Sankara, adored as the Bhagvadpada. (13)

॥ इति श्रीशंकराचार्योपदिष्ट-द्वादशमंजरिकास्त्रोतं समाप्तम् ॥


Bharat Ratna M. S. Subbulakshmi

16 September 1916 – 11 December 2004) (Madurai Shanmukhavadivu Subbulakshmi)
One of her most popular rendition is Bhaja Govindam

Listen to Bhaja Govindam in M.S.Subbulakshmi's voice:
http://youtu.be/D8slUawzmPc

Friday, January 20, 2012

श्री-कृष्ण-सहस्त्रनाम-स्तोत्र



श्री-कृष्ण-सहस्त्रनाम-स्तोत्र
॥ श्रीकृष्णाय नमः ॥

ध्यानम्
शिखिमुकुटविशेषं नीलपद्माङ्गदेशं
विधुमुखकृतकेशं कौस्तुभापीतवेशम् ।
मधुररवकलेशं शं भजे भ्रातुशेषं
व्रजजनवनितेशं माधवं राधिकेशम् ॥

स्तोत्रम्
कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १ ॥
भक्तिगम्यस्‍त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवो देवशिखामणिः ॥ २ ॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥
वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५ ॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥
शूरवंशैकधीः शौरिः कंसशंकाविषादकृत् ।
वसुदेवोल्लसच्छाक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥
वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥
शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११ ॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥
महर्षिमानसोल्लासो महीमङ्गलदायकः ।
संतोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४ ॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥
स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रः शेषोक्ताख्यासहस्‍त्रकः ॥ १६ ॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८ ॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ २१ ॥
अञ्जनस्निग्धनयनः पर्यायाङ्करितस्मितः ।
लीलाक्षस्तरलालोक शकटासुरभञ्जनः ॥ २२ ॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ २३ ॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुःसहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः ।
व्यालम्बिचूलिकारत्‍नो घोषगोपः प्रहर्षणः ॥ २५ ॥
स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरुकटितटः ॥ २६ ॥
घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ २७ ॥
धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८ ॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९ ॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१ ॥
भूषारत्‍नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥
बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥ ३३ ॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥
सवित्रीस्नेहसंश्‍लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५ ॥
मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।
दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः ॥ ३६ ॥
हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशाङ्कितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ ३७ ॥
दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥ ३८ ॥
नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।
धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९ ॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१ ॥
क्षेपणीक्षेपणः प्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ ४२ ॥
नियुद्धलीलासंह्रष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनः सर्वजन्तुरुतानुकृत् ॥ ४३ ॥
भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५ ॥
बलभद्रसमाश्‍लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ ४६ ॥
कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।
सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७ ॥
गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।
वन्याशनप्रियः श्रृङ्गरवाकारितवत्सकः ॥ ४८ ॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्‌पदः ।
मञ्जुशिज्ञितमञ्जीरचरणः करकङ्कणः ॥ ४९ ॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५० ॥

अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनः श्रेयोनिधर्दानवमुक्तिदः ॥ ५१ ॥
कालिन्दीपुलिनासीनः सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥
भुजसन्ध्यन्तरन्यस्तश्रृङ्गवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकवलः कलभाषणः ॥ ५३ ॥
अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्‌पुरुषविग्रहः ॥ ५५ ॥
स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपः सुखी ।
चिराद्बलो हितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥
विचित्रशक्तिर्व्यालीनः सृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतः सर्वार्थसाधकः ॥ ५८ ॥
ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपः सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामः सर्ववेदादिरणीयः स्थूलरूपवान् ॥ ६० ॥
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्पतः ।
छेन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतीः ॥ ६१ ॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतः सर्वदेवो महेश्वरः ॥ ६२ ॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥
बलभद्रैकह्रदयो नामकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥
वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६ ॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौह्रदः ।
सुनन्दसुह्रदेकात्मा सुबलप्राणरञ्जनः ॥ ६७ ॥
तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥
गोपीविरहसंतप्तो गोपिकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥
विलासललितस्मेरगर्भलीलावलोकनः ।
स्‍त्रग्भूषणानुलेपाढ्यो जनन्युपह्रतान्नभुक् ॥ ७० ॥
वरशय्याशयो राधप्रेमसल्लापनिर्वृतः ।
यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१ ॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२ ॥
नागपत्‍नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविषाक्तदृगात्मेशः स्वदृगात्मास्तुतिप्रियः ॥ ७३ ॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥
अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६ ॥
नागोपायनह्रष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७ ॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडलम्पटो नृपचेष्टितः ॥ ७८ ॥
काकपक्षधरः सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥
मुञ्जाटव्यग्निशमनः प्रावृट्‌कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८० ॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ ८१ ॥
गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२ ॥
बिम्बाधरार्पितदारुवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥ ८३ ॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्‍त्रुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥
रागपल्लवितस्थाणुर्गीतनमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५ ॥
व्याघ्रादिहिंस्‍त्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोवृन्दः प्रेमोत्कर्णिततर्णकः ॥ ८६ ॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघश्‍छत्रायितवलाहकः ॥ ८७ ॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्गममुद्रितः ॥ ८८ ॥
गोपकन्याजलक्रीडाह्रष्टो गोप्यंशुकापह्रत् ।
स्कन्धारोपितगोपस्‍त्रीवासाः कुन्दनिभस्मितः ॥ ८९ ॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ ९१ ॥
गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।
गोपस्‍त्रीवस्‍त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्‍न्यभिवाञ्छितः ॥ ९३ ॥
मुनिपत्‍नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्‍नीवरप्रदः ॥ ९४ ॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५ ॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरः शक्रवृष्टिप्रशमनोन्मुख ॥ ९६ ॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।
गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः ॥ ९७ ॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥
स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनः सुमनोवृष्टिह्रष्टो वासववन्दितः ॥ ९९ ॥
कामधेनुपयःपूराभिषिक्तः सुरभिस्तुतः ।
धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥

ज्ञानयज्ञप्रियः शास्त्रनेत्रः सर्वार्थसारथिः ।
ऎरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०१ ॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः ।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥
स्वर्लोकालोकसंह्रष्टगोपवर्गत्रिवर्गदः ।
ब्रह्मग्रद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४ ॥
शरच्चन्द्रविहारोक्तः श्रीपतिर्वशकः क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामनहरणो गोपिकाशतयूथपः ॥ १०६ ॥
वैजयन्तीस्त्रगाकल्पो गोपिकामानवर्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥
स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्‌पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥
गोपीहेममणिश्रेणिमध्येन्द्रमनिरुज्जवलः ।
विद्याधरेन्दुशापघ्नः शंखचूडशिरोहरः ॥ ११० ॥
शंखचूडशिरोरत्‍नसम्प्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११ ॥
सरसः सस्मितमुखः सुस्थिरो विरहाकुलः ।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२ ॥
अक्रूरसंस्तुतो गूढो गुणवृत्त्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३ ॥
सर्वप्रमाणप्रमथीसर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४ ॥
मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५ ॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६ ॥
धीरः कुवलयपीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ ११७ ॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८ ॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथः सुधर्मानयनक्षमः ॥ ११९ ॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीः सुधीः ॥ १२० ॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१ ॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रपदः शास्ता मधुराजसभासदः ॥ १२२ ॥
जामदग्नयसमभ्यर्च्यो गोमन्तगिरिसंचरः ।
गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥
चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सृगालावनिपालघ्नः स्रृगालात्मजराज्यदः ॥ १२४ ॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५ ॥
द्वारकानिलयो रुक्मिमानहन्ता यदुद्वहः ।
रुचिरो रुक्मिणिजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७ ॥
बाणासुरपुरीरोद्धा रक्षाज्वल्नयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥
षट्‌चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजम्भणः शम्भुसंस्तुतः ॥ १२९ ॥
इन्द्रियात्मेन्दुह्रदयः सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भह्रदयो मोहावर्तनिवर्तनः ॥ १३० ॥
आत्मज्ञाननिधर्मेधाकोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभः सर्वागमाध्वगः ॥ १३१ ॥
तुरीयः सर्वधीसाक्षी द्वन्द्वाराम आत्मदूरगः ।
अज्ञातपारवश्यश्रीरव्याकृतविहारवान् ॥ १३२ ॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३ ॥
अनिरूद्धनिरोधज्ञो जलेशाह्रतगोकुलः ।
जलेशविजयी वीरः सत्राजिद्रत्नयाचकः ॥ १३४ ॥
प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५ ॥
सत्यभामाप्रियः कामः शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६ ॥
कैकेयीरमणो भद्रभर्ता नाग्नजितीधवः ।
माद्रीमनोहरः शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७ ॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८ ॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९ ॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः ।
पृथ्वीस्तुतः प्रकाशात्मा ह्रद्यो यज्ञफलप्रदः ॥ १४० ॥
गुणग्राही गुणद्रष्टा गूढस्वात्माविभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१ ॥
प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थः सर्वव्याकृतसिद्धिदः ॥ १४२ ॥
स्वयम्प्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥
कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥
षोडशस्‍त्रीसहस्‍त्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥
शक्राभिवन्दितः शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः ॥ १४६ ॥
पुराणः संयमी जन्मालिप्तः षड्‌विंशकोऽर्थदः ।
यशस्यनीतिराद्यन्तरहितः सत्कथाप्रियः ॥ १४७ ॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
हंसविध्वंसनः साम्बजनको डिम्भकार्दनः ॥ १४९ ॥
मुनिर्गोप्ता पितृवरप्रदः सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५० ॥

सप्ताब्धिस्तम्भनोद्भुतो हरिः सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१ ॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२ ॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णाक्रियमौढ्यतोषितो भक्तवत्सलः ॥ १५३ ॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ १५४ ॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥
बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६ ॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः ॥ १५७ ॥
सुलभो राजसूयार्हो युधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतः सात्वतपूर्वजः ॥ १५९ ॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञापरिपालकः ॥ १६० ॥
बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१ ॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२ ॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥
नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४ ॥
त्रिविक्रमस्‍त्रिलोकेशो वामनः श्रीधरः पुमान् ।
ह्रषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५ ॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
शाल्वघ्नः समरश्‍लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥
दामोदरप्रियसखः पृथुकास्वादनप्रियः ।
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७ ॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदौत्यकृत् ।
विदुरातिथ्यसंतुष्टः कुन्तीसंतोशदायकः ॥ १६९ ॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित्‌ ।
विदुराभिष्टुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ १७० ॥
पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक्‌ ।
सर्वानुग्राहकः सर्वदाशार्हसततार्चितः ॥ १७१ ॥
अचिन्त्यो मधुरालापः साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षितः ॥ १७२ ॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान्‍ गोब्राह्मणहिताशयः ॥ १७३ ॥
वरशीलः शिवारम्भः सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धः सन्मित्रः सुशरण्यः सुलक्षणः ॥ १७४ ॥
धृतराष्ट्रगतो दृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ १७५ ॥
सामगानप्रियो धर्मधेनुर्वणोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ १७७ ॥
सुजातानन्तमहिमा स्वप्रव्यापारितार्जुनः ।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक ॥ १७९ ॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८० ॥
अङ्गुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१ ॥
अश्वत्थमवधायासत्रातपाण्डुसुतः कृती ।
इषीकास्‍त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ १८२ ॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः ।
धृतराष्ट्रपरमृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥
भीष्मबुद्धिप्रदः शान्तः शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४ ॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥ १८५ ॥
शान्तः शान्तनवोदीर्णः सर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६ ॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७ ॥
जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थ आप्तसत्कारो मासकात्परिवर्तदः ॥ १८८ ॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतः सर्वभावनः ॥ १८९ ॥
असोढ्यादवोद्रेको विहिताप्तादिपूजनः ।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९० ॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
सृष्टिप्रत्यवहारोत्कटस्वधामगमनोत्सुकः ॥ १९१ ॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्‌ ।
सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥ १९२ ॥
वेलाकाननसंचारी वेलानिलह्रतश्रमः ।
कालत्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥ १९३ ॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरः सुरवल्लभः ॥ १९४ ॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिः शतकोटिसुवर्णदः ॥ १९५ ॥
स्वमायामोहोताऽशेषव्रुष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६ ॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलः सहस्त्रफणिवीक्षणः ॥ १९७ ॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८ ॥
व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥ १९९ ॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ २०० ॥

पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१ ॥
॥ श्रीपरमात्मा परात्पर ॐ नम इति ॥
॥ फलश्रुतिः ॥
इदं सहस्त्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२ ॥
तेने प्रोक्तं वसिष्ठाय ततो लब्ध्वा परशरः ।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥
तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥
इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥
प्रायश्चित्तान्यशेषाणि नालं यानि व्यपिहितुम् ।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६ ॥
ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७ ॥
इदं नामसहस्त्रम यः पठत्येतच्छृणोति च ।
शिवलिङ्गसहस्त्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥
इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतः सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥
द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१० ॥
किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मनन्दमवाप्यान्ते कृष्णसायुज्यमाप्नुयात् ॥ २११ ॥


॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥





Wednesday, February 23, 2011


एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव ।

एको मन्त्रस्तस्य नामानि यानि कर्माप्येकंतस्य देवस्य सेवा ॥१॥


लावण्यामृतवन्यां मधुरिमलहरीपरीपाकः ।

कारुण्यानां हृदये कपटकिशोरः परिस्फुरतु ॥२॥


श्रवसोः कुवलयमक्ष्णोरञ्जनमुरसो महेन्द्रमणिदाम ।

वृन्दावनरमणीनां मण्डनमखिलं हरिर्जयति ॥३॥


श्रृणु सखि कौतुकमेकं नन्दनिकेताङगणे मया दृष्टम् ।

गोधूलिधूसराङगो नृत्यति वेदान्तसिद्धान्तः ॥४॥


प्रणयपटुपिपासापीडितानद्य प्राणान्

क्षणमपि कथयाहं हा कथं सान्त्वयानि ।

असहनिजविकुण्ठाः कण्ठमुत्कण्ठयाप्ता

ननु तव मुखमिन्दुं द्रष्टुमेते त्वरन्ति ॥५॥


गोपबालसुन्दरीगणावृतं कलानिधिं

रासमण्डलीविहारकारिकामसुन्दरम् ।

पद्मयोनिशङकरादिदेववृन्दवन्दितं

नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥६॥


किं पिबन्ति मम पदरसं मुनयः सुधां विहाय ।

ज्ञातुमिदं बालो हरिः स्वपदं मुखे निनाय ॥७॥


यमुनापुलिने समुत्क्षिपन् नटवेषः कुसुमस्य कन्दुकम् ।

न पुनः सखि लोकयिष्यते कपटाभीरकिशोरचन्द्रमाः ॥८॥


ब्रह्मन्नत्र पुरद्विषा सह पुरः पीठे निषीद क्षणं

तूष्णीं तिष्ठ सुरेन्द्र चाटुभिरलं वारीश दूरीभव ।

एते द्वारि मुहुः कथं सुरगणाः कुर्वन्ति कोलाहलं

हन्त द्वारवतीपतेरवसरो नाद्यापि निष्पद्यते ॥९॥


ये मुक्तावपि निःस्पृहाः प्रतिपदप्रोन्मीलदानन्ददां

यामास्थाय समस्तमस्तकमणिं कुर्वन्ति यं स्वे वशे ।

तान् भक्तानपि तां च भक्तिमपि तं भक्तिप्रियं श्रीहरिं

वन्दे सन्ततमर्थयेऽनुदिवसं नित्यं शरण्यं भजे ॥१०॥


हे कृष्ण कृष्ण भगवन् मम चित्तभृङगो

यायात् कदापि भवतश्चरणारविन्दे ।

देहादिपुष्पविरतः कृपया तदानीं

वीक्षस्व वामनयनेन निजं पदाब्जम् ॥११॥


पथि धावन्निह पतितो रोदिष्यम्बाकरावलम्बाय ।

पतितोद्धारणसमये किन्न स्मरसि त्वमात्मानम् ॥१२॥


विहाय पीयूषरसं मुनीश्वरा ममाङ्‌घ्रिराजीव रसं पिबन्ति किम् ।

इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु नः ॥१३॥


अयि दीनदयार्द्र नाथ हे मथुरानाथ कदावलोक्यसे ।

हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥१४॥


न प्रेमगन्धोऽस्ति दरोऽपि मे हरौ

क्रन्दामि सौभाग्यभरं प्रकाशितुम् ।


वंशीविलास्याननलोकनं विना

बिभर्मि यत्प्राणपतङगकान् वृथा ॥१५॥


न जाने सम्मुखायाते प्रियाणि वदति प्रिये ।

प्रयान्ति मम गात्राणि श्रोत्रतां किमु नेत्रताम् ॥१६॥


प्रिय इति गोपवधूभिः शिशुरिति वृद्धैधीश इति देवैः ।

नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः ॥१७॥


नवनीरदसुन्दरनीलवपुंशितिकण्ठशिखण्डितभालशुभम् ।

कमलाञ्चितखञ्जननेत्रयुगं तुलसीदलदामसुगन्धवपुम् ।

जगदादिगुरुं व्रजराजसुतं प्रणमामि निरन्तरश्रीरमणम् ॥१८॥


नीतं यदि नवनीतं नीतं नीतं किमेतेन ।

आतपतापितभूमौ माधव मा धाव मा धाव ॥१९॥


पादाश्रितानां च समस्तचौरं श्रीराधिकाया हृदयस्य चौरम् ।

नीलाम्बुजश्यामलकान्तिचौरं चौराग्रगण्यं पुरुषं नमामि ॥२०॥


वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे

गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि ।

आभीरीणां मधुरमुरलीनादसम्मोहितानां

मध्ये क्रीडन्नवतु सततं नन्दगोपालबालः ॥२१॥


कनककमलमालः केशिकंसादिकालः

समरभुवि करालः प्रेमबापीमरालः ।

निखिलभुवनपालः पुण्यवल्लीप्रवालो

वसतु हृदि मदीये सैव गोपालबाल ॥२२॥


परमानन्दसन्दोहकन्दं भद्रकरं सताम् ।

इन्दिरामन्दिरं वन्दे गोविन्दं नन्दनन्दनम् ॥२३॥


स्मितविकसितवक्‍त्रं रत्नपाणौ सुवेणुं

सुललितमणिहारं वारिजास्यं वदान्यम् ।

तरुणजलदनीलं चारुगोविन्दवृन्दैः

परमपुरुषमाद्यं बालकृष्णं नमामि ॥२४॥


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्‌गुरुम् ॥२५॥


मूकं करोति वाचालं पङंगु लङघयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥२६॥


सजलजलदकालं प्रेमवापीमराल-

मभिनववनमालं क्षेमवल्लीप्रवालम् ।

भुवननलिननालं दानवानां करालं

निखिलमनुजपालं नौमि तंनन्दबालम् ॥२७॥


दोर्भ्यां दोर्भ्यां व्रजन्तं व्रजसदनजनाह्वानतः प्रोल्लसन्तं

मन्दं मन्दं हसन्तं मधुमधुरवचो मेति मेति ब्रुवन्तम् ।

गोपालीपाणितालीतरलितवलयध्वानमुग्धान्तरालं

वन्दे तं देवमिन्दीवरविमलदलश्यामलं नन्दबालम् ॥२८॥


पुञ्जीभूतं प्रेम गोपाङगनानां मूर्तीभूतं भागधेयं यदूनाम् ।

एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥२९॥


तटी प्रस्फुटीनीपवाटीकुटीरे वधूटीनटीदृक्पुटीपीयमानम् ।

समालिप्तपाटीरवक्षस्तटीकं हरिद्राभराजत्पटीकं नमामि ॥३०॥


कनकरुचिदुकूलश्चारुबर्हावचूलः

सकलनिगमसारः कोऽपि लीलावतारः ।

त्रिभुवनसुखकारी शैलधारी मुरारिः

परिकलितरथाङगो मङगलं नस्तनोतु ॥३१॥


कदा वृन्दारण्ये विमलयमुनातीरपुलिने

चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।

अये कृष्ण स्वामिन् मधुरमुरलीवादन विभो

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥३२॥


नन्दनन्दनपदारविन्दयोः स्यन्दमानमकरन्दबिन्दवः ।

सिन्धवः परमसौख्यसम्पदां नन्दयन्तु हृदयं ममानिशम् ॥३३॥


तत्कैशोरं तच्च वक्‍त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।

तत्सौन्दर्यं सा च मन्दस्मित श्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥३४॥


हस्तमुत्क्षिप्य यातोऽसि बलात् कृष्ण किमद्भुतम् ।

हृदयाद्यपि निर्यासि पौरुषं गणयामि ते ॥३५॥


गोपाल इति मत्वा त्वां प्रचुरक्षीरवाञ्छया ।

श्रितो मातुः स्तनक्षीरमपि लब्धुं न शक्रुयाम् ॥३६॥


क्षीरसारमपहृत्य शङकया स्वीकृतं यदि पलायनं त्वया ।

मानसे मम घनान्धतामसे नन्दनन्दन कथं न लीयसे ॥३७॥


रत्नाकरस्त्व गृहं गृहिणी च पद्मा किं देयमस्ति भवते जगदीश्वराय

आभीरवामनयनाहृतमानसाय दत्तं मनो यदुपते कृपया गृहाण ॥


आनीता नटवन्मया तव पुरः श्रीकृष्ण या भूमिका

व्योमाकाशखखाम्बराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि ।

प्रीतो यद्यसि ताः समीक्ष्य भगवन् तद् वाञ्छितं देहि मे

नो चेद् ब्रूहि कदापि मानय पुनर्मामीदृशीं भूमिकाम् ॥३९॥


शरीरं सुरुपं ततो वै कलत्रं यशश्वारु चित्रं धनं मेरुतुल्यम् ।

यशोदाकिशोरे मनो वै न लग्नं ततः किं ततः किं ततः किं ततः किम्

न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम्

यशोदाकिशोरे मनो वै न लग्नं ततः किं ततः किं ततः किंततःकिम्

षडङगादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति ।

यशोदाकिशोरे मनो वै न लग्नं ततः किंततः किं ततः किंततः किम्

रे चित्त चिन्तय चिरं चरणौ मुरारेः

पारं गमिष्यसि यतो भवसागरस्य ।

पुत्राः कलत्रमितरे न हि ते सहायाः

सर्वं विलोकय सखे मृगतृष्णिकाभम् ॥४३॥


नन्दनन्दनपदारविन्दयोर्मन्दमन्दमनुजायतां मनः ।

मुञ्च मुञ्च विषयेषु वासनाः किञ्च किञ्च तदुदीर्यतां वचः ॥४४॥


अहङकार क्वापि व्रज वृजिन हे मा त्वमिह भू-

रभूमिर्दर्पाणामहमपसर त्वं पिशुन हे ।

अये क्रोध स्थानान्तरमनुसरानन्यमनसां

त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥४५॥


का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते

नो चेदर्भकजीवनाय जननीस्तन्य्म कथं निःसरेत् ।

इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं

त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥४६॥


या चिन्ता भुवि पुत्रपौत्रभरणव्यापारसम्भाषणे

या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते ।

सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं

का चिन्ता यमराजभीमसदनद्वारप्रयाणे प्रभो ॥४७॥


जीर्णा तरिः सरिदियं च गभीरनीरा

नक्राकुला वहति वायुरतिप्रचण्डः ।

तार्याः स्त्रियश्च शिशवश्च तथैव वृद्धाः

तत्कर्णधारभुजयोर्बलमाश्रयामः ॥४८॥


सिन्धुर्बिन्दुमहो प्रयच्छति न हि स्वैरी च धाराधरः

सङकल्पेन विना ददाति न कदाप्यल्पश्च कल्पद्रुमः ।

स्वच्छन्दोऽपि विधुः सुधावितरणे रात्रिन्दिवापेक्षते

दाता कोऽपि न दृश्यते विनियमं श्रीकृष्णचन्द्रं विना ॥४९॥


तत्प्रेमभावरसभक्तिविलासनाम

हारेषु चेत् खलु मनः किमु कामिनीभिः ।

तल्लोकनाथपदपङकजधूलिमिश्र-

लिप्‍तं वपुः किमु वृथागुरुचन्दनाद्यैः ॥५०॥


मृद्वीका रसिता सिता समशिता स्फीतं च पीतं पयः

स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।

सत्यं ब्रूहि मदीयजीव भवता भूयो भवे भ्राम्यता

कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥५१॥


चूडाचुम्बितचारुचन्द्रकचमत्कारव्रजभ्राजितं

दिव्यं मञ्जुमरन्दपङकजमुखभ्रूनृत्यदिन्दीवरम् ।

रज्यद्वेणुकमूलरोकविलसद्विम्बाधरौष्ठं मुहुः

श्रीवृन्दावनकुञ्जकेलिललितं राधाप्रियं प्रीणये ॥५२॥


वृन्दावृन्दमरन्दबिन्दुनिचयस्पन्देन सन्दीपिता-

द्गन्धाद्यस्य सनन्दनादिरमृतानन्देऽपि मन्दादरः ।

मोक्षानन्दथुनिन्दिसेवनसुखस्वाच्छन्द्यसंदोहदं

तद्वन्देमहि नन्दनन्दनपदद्वन्द्वारविन्दं मुहुः ॥५३॥


वन्दे नवघनश्यामं पीतकौशेयवाससम् ।

सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥५४॥


क्वाननं क्व नयनं क्व नासिका क्व श्रुतिः क च शिखेति केलितः ।

तत्र तत्र निहिताङगुलीदलो वल्लवीकुलमनन्दयत्प्रभुः ॥५५॥


मधुरमधुरमेतन्मङगलं मङगलानां

सकलनिगमवल्लीसत्फलं चित्स्वरुपम् ।

सकृदपि परिगीतं श्रद्धया हेलया वा

भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥५६॥


गोविन्दं गोकुलानन्दं गोपालं गोपवल्लभम् ।

गोवर्द्धनधरं धीरं तं वन्दे गोमतीप्रियम् ॥५७॥


हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते

हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।

हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां

हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥५८॥


इमां घनश्रेणिमिवोन्मुखः शिखीचकोरकः कार्तिकचन्द्रिकामिव ।

रथाङगनामा तरणेरिव त्विष कृष्णच्छविं वीक्ष्य न कः प्रमोदते ॥५९॥


रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्

वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया ।

सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितै-

रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥६०॥


इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं

मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।

माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं

चेतोवृत्तिरियं सदा प्रियवर त्वां द्रष्टुमुत्कण्ठते ॥६१॥


इन्दीवरदलश्याममिन्दिरानन्दकन्दलम्

वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥६२॥


यावन्निरञ्जनमजं पुरुषं जरन्तं

सञ्चिन्तयामि हृदये जगति स्फुरन्तम् ।

तावद्‌बलात्स्फुरति हन्त हृदन्तरे मे

गोपस्य कोऽपि शिशुरञ्जनपुञ्जमञ्जुः ॥६३॥


करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

बटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥६४॥


गोविन्दं गोकुलानन्दं वेणुवादनतत्परम् ।

राधिकारञ्जनं श्यामं वन्दे गोपालनन्दनम् ॥६५॥


निरुद्धं वाष्पान्तः कथमपि मया गद्गदगिरा

ह्विया सद्यो गूढा पथि विघटितो वेपथुरपि ।

गिरिद्रोण्यां वेणौ ध्वनति निपुणैरिङगितनये

तथाप्यूहां चक्रे मम मनसि रागः परिजनैः ॥६६॥


कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रे वरमौक्तिकं करतले वेणुः करे कङकणम् ।

सर्वाङगे हरिचन्दनं सुललितं कण्ठे च मुक्तावली

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥६७॥


निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां

कमलविपिनवीथीगर्वसर्वंकषाभ्याम् ।

प्रणमदभयदानप्रौढिगाढोद्धताभ्यां

किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥६८॥


प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां

प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।

प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां

प्रभवतु हृदये नः प्राणनाथः किशोरः ॥६९॥


लीलायताभ्यां रसशीतलाभ्यां

लीलारुणाभ्यां नयनाम्बुजाभ्याम् ।

आलोकयेदद्‌भुतविभ्रमाभ्यां

काले कदा कारुणिकः किशोरः ॥७०॥


त्रिभुवनसरसाभ्यां दीप्तभूषापराभ्यां

दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।

अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-

मयमयमनुकूजद्वेणुरायाति देवः ॥७१॥


बर्हं नाम विभूषणं बहु मतं वेषाय शेषैरलं

वक्‍त्रं दन्तविशेषकान्तिलहरीविन्यासधन्याधरम् ।

शीलैरल्पधियामगम्यविभवैः श्रृङगारभङगीमयं

चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥७२॥


माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।

चापल्यादपि चपलं चेतो मम हरति किं कुर्मः ॥७३॥


प्रेमदं च मे कामदं च मे वेदनं च मे वैभवंच मे ।

जीवनंच मे जीवितंच मे दैवतं च मे देव नापरम् ॥७४॥


उपासतामात्मविदः पुराणं परं पुमांसं निहितं गुहायाम् ।

वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः ॥७५॥


ते ते भावाः सकलजगतीलोभनीयप्रभावा

नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।

वीणावेणुक्कणितलसितस्मरेवक्‍त्रारविन्दा-

न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुपूरात् ॥७६॥


पर्याकुलेन नयनान्तविजृम्भितेन

वक्‍त्रेण कोमलदरालितविभ्रमेण ।

मन्त्रेण मञ्जुलतरेण च जल्पितेन

नन्दस्य हन्त तनयो हृदयं धुनोति ॥७७॥


लीलाटोपकटाक्षनिर्भरपरिष्वङगप्रसङगाधिक-

प्रीते रीतिविभङगसङगरलसद्वेणुप्रणादामृते ।

राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा

माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥७८॥


विहाय कोदण्डशरान्मुहूर्तं गृहान पाणौ मणिचारुवेणुम् ।

मायूरबर्हंच निजोत्तमाङगेसीतापते त्वां प्रणमामि पश्चात् ॥७९॥


कालिन्दीपुलिने तमालनिविडच्छाये पुरः सञ्चर-

त्तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्‍नाति यः ।

वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-

प्रान्ते गाश्च विलोकयन् प्रतिपलं तं बालमालोकये ॥८०॥


मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया ।

हे रमारमण वार्यतामसौ कः सहेत निजवेश्मलङघनम् ॥८१॥


अयं क्षीराम्भोधेः पतिरिति गवां पालक इति

श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।

अनेन प्रत्यूहो व्यरचि सततं येन जननी-

स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥८२॥


नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा-

ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।

अवतु विततगात्रस्तोत्रसंस्यूतमौलि-

र्दशनविधृतरश्मिर्देवकी पुण्यराशिः ॥८३॥


भक्तिस्त्वयि स्थिरतरा भगवन्यदि स्या-

द्दैवेन नः फलितदिव्यकिशोरवेषे ।

मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मा-

न्धर्मार्थकामगतयः समयप्रतीक्षाः ॥८४॥


अङगनामङगनामन्तरे माधवो माधवं माधवं चान्तरेणाङगना ।

इत्थमाकल्पिते मण्डले मध्यगः संजगों वेणुना देवकीनन्दनः ॥

बालिकातालिकाताललीलालयासंगसंदर्शितभ्रूलताविभ्रमः ।

गोपिकागीतदत्तावधानः स्वयं संजगौ वेणुना देवकीनन्दनः ॥

मध्येगोकुलमण्डलं प्रतिदिशं चाम्भारवोज्जृम्भिते

प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नू पूरम् ।

भाले बालविभूषणं कटिरनत्सत्किङकिणीमेखलं

कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥८७॥


कामं सन्तु सहस्त्रशः कतिपये सारस्य धौरेयकाः

कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।

नैवैतैर्विवदामहे न च वयं देव प्रियं ब्रूमहे

यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता ॥८८॥


यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवाम गाहते

विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्‍टुमुत्कण्ठते ।

उत्तंसाय तमालपल्लवमितिच्छिन्दन्ति यां गोपिकाः

कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥८९॥


फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङकमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसङघावृतं

गोविन्दं कलवेणुवादनपरं दिव्याङगभूषं भजे ॥९०॥


परमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तखेदखिन्नाः ।

विचिनुत भवनेषु वल्लवीनामुपनिषदर्थमुलूखले निबद्धम् ॥९१॥


तमसि रविरिवोद्यन्मज्जतामम्बुराशौ

प्लव इव तृषितानां स्वादुवर्षीव मेघः ।

निधिरिव निधनानां दीर्घतीव्रामयानां

भिषगिव कुशलं मे दातुमायाति शौरिः ॥९२॥


चिकुरं बहुलं विरलभ्रमरं मृदुलं वचनं विपुलं नयनम् ।

अधरं मधुरं ललितं वदनं चपलं चरितं च कदानुभवे ॥९३॥


मुग्धं स्निग्धं मधुरमुरलीमाधुरीधीरनादैः

कारंकारंकरणविवशं गोकुलव्याकुलत्वम् ।

श्यामं कामं युवजनमनोमोहनं मोहनाङंग

चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥९४॥


देवकीतनयपूजनपूतः पूतनारिचरणोदकधूतः ।

यद्यहं स्मृतधनञ्जयसूतः किं करिष्यति स मे यमदूत ॥९५॥


अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं

किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम् ।

आलोलाङगुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा

मूले कल्पतरोस्त्रिभङगललितं ध्यायेज्जगन्मोहनम् ॥९६॥


हे देव हे दयित हे भुवनैकबन्धो

हे कृष्ण हे चपल हे करुणैकसिन्धो ।

हे नाथ हे रमण हे नयनाभिराम

हा हा कदानु भवितासि पदं दृशोर्मे ॥९७॥


वन्दे मुकुन्दमरविन्ददलायताक्षं

कुन्देन्दुशङखदशनं शिशुगोपवेषम् ।

इन्द्रादिदेवगणवन्दितपादपीठं

वृन्दावनालयमहं वसुदेवसूनुम् ॥९८॥


जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं

पाणिद्वन्द्वसमर्चयाच्युतकथां श्रोत्रद्वयं त्वं श्रृणु ।

कृष्णं लोकय लोचनद्वय हरेर्गच्छाङि‍घ्रयुग्मालयं

जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्द्धन्नमाधोक्षजम् ॥९९॥


हे लोकाः श्रृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां

योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।

अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां

तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥१००॥


शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं

संसारोच्छेदमन्त्रं समुचिततमसः सङघनिर्वाणमन्त्रम् ।

सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं

जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥१०१॥


व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं

दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।

भक्त्यात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं

श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥१०२॥


श्रृण्वञ्जनार्दनकथागुणकीर्तनानि

देहे न यस्य पुलकोद्‌गमरोमराजिः ।

नोत्पद्यते नयनयोर्विमलाम्बुमाला

धिक् तस्य जीवितमहो पुरुषाधमस्य ॥१०३॥


अलमलमलमेका प्राणिनां पातकानां

निरसनविषये वा कृष्णकृष्णेति वाणी ।

यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा

करतलकलिता सा मोक्षसाम्राज्यलक्ष्मीः ॥१०४॥


कृष्ण त्वदीयपदपङकजपञ्जरान्ते

अद्यैव मे विशतु मानसराजहंसः ।

प्राणप्रयाणसमये कफवातपित्तैः

कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥१०५॥


कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।

जलं भित्त्वा यथा पद्यं नरकादुद्धराम्यहम् ॥१०६॥


सत्यं ब्रवीमि मनुजाः स्वयमूर्ध्वबाहु-

र्यो मां मुकुन्द नरसिंह जर्नादेनेति ।

जीवो जपत्यनुदिनं मरणे रणे वा

पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥१०७॥


गोकोटिदानं ग्रहणेषु काशीप्रयागगङगायुतकल्पवासः ।

यज्ञायुतं मेरुसुवर्णदानं गोविन्दनाम्ना न कदापि तुल्यम् ॥१०८॥


वासुदेवं परित्यज्य येऽन्यं देवमुपासते ।

तृषिता जाह्नवीतीरे कूपं वाञ्छन्ति दुर्भगाः ॥१०९॥


बिभ्रद्वेणुं जठरपटयोः श्रृङगवेत्रे च कक्षे

वामे पाणौ मसृणकवलं तत्फलान्यङ्‌गुलीषु ।

तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः

स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥११०॥


नौमीडय तेऽभ्रवपुषे तडिदम्बराय

गुञ्जावतंसपरिपिच्छलसन्मुखाय ।

वन्यस्त्रजे कवलवेत्रविषाणवेणु-

लक्ष्मश्रिये मृदुपदे पशुपाङगजाय ॥१११॥

तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम्‌ ।

तावन्मोहोऽङ्‌घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥११२॥


समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः ।

भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम्‌ ॥११३॥


बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम्‌ ।

रन्ध्रान्वेणोरधरसुधया पूरयन्गोपवृन्दै-

र्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥११४॥


अहो बकीयं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं कंवा दयालुं शरणं व्रजेम ॥११५॥


आहुश्च ते नलिननाभ पदारविन्दं

योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं

गेहंजुषामपि मनस्युदियात्सदा नः ॥११६॥


अक्षण्वतां फलमिदं न परं विदामः

सख्यः पशूननु विवेशयतोर्वयस्यैः ।

वक्‍त्रं व्रजेशसुतयोरनुवेणुजुष्‍टं

यैर्वा निपीतमनुरक्तकटाक्षमोक्षम्‌ ॥११७॥


नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥११८॥


गोविन्द द्वारिकावासिन्‌ कृष्ण गोपीजनप्रिय ।

कौरवैः परिभूतां मां किं न जानासि केशव ॥११९॥


हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।

कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥१२०॥


श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो

द्रुमो भूमिश्चिन्तामणिगणमयी तोयममृतम्‌ ।

कथा गानं नाटयं गमनमपि वंशी प्रियसखी

चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥१२१॥


यस्यैकनिःश्वसितकालमथावलम्ब्य

जीवन्ति लोमविलजा जगदण्डनाथाः ।

विष्णुर्महान्स इह यस्य कलाविशेषो

गोविन्दमादिपुरुषं तमहं भजामि ॥१२२॥


सान्द्रानन्दपुरन्दरादिदिविषद्‌वृन्दैरमन्दादरा-

दानम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम्‌ ।

स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनी मेदुरं

श्रीगोविन्दपदारविन्दमशुभस्यन्दाय वन्दामहे ॥१२३॥


राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली-

नेपथ्योचितनीलरत्‍नमवनीभारावतारक्षमः ।

स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं

कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥१२४॥


वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते

दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते

म्लेच्छान्‌ मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥

रासे चञ्चलतां गतस्य ललनावृन्दस्य मध्ये हरी

राजत्येष कथं भवेदुपमितिस्तादृङ्‌ न भावो भुवि ।

चेत्स्याच्चञ्चलता गता विपुलता विद्युत्सु संनर्तनं

तन्मध्ये जलदस्य नर्तनमतिः शोभा भवेत्तादृशी ॥१२६॥


श्रीकृष्णस्य मनोज्ञनादमुरलीं विम्बाधरं श्रीमुखं

सम्पूर्णाकृतिमच्छशाङकललितं हृत्कौस्तुभाध्यासितम्‌ ।

पादौ नूपुरमञ्जुशिञ्जितनमत्कैवल्यनिन्दाक्षम-

स्वादौ तप्तसुवर्णकान्ति वसनं साक्षात्करिष्ये कदा ॥१२७॥


श्रीकृष्ण श्याम राधाधव यदुनृपते यामुनप्रान्तचारिन्‌

वृन्दारण्यैकवासिन्मधुरशशिमुख स्निग्धमूर्ते व्रजेश ।

वंशीवाद्योचित स्त्रग्भरपरिमलयुक्‌पिच्छसङ्‌क्रान्तचूड

प्रत्यङगश्रीनिवास प्रदिश मनसि मे स्वीयभक्तिप्रकाशम्‌ ॥१२८॥


कालिन्दीकूलकेलिः कलितकुमुदिनीकान्तकान्तिः कृपालुः

केशिक्रान्तासुकर्षी वककुलकलनः कालियाकालनोत्कः ।

काव्याङकक्रान्तकर्मा कुरुकुलकषणः कालकण्ठीकृताङगः

कृष्णः कारुण्यकर्मा भवतु मयि कृपादृष्‍टिरक्लिष्‍टकर्मा ॥१२९॥


इदानीमङगमक्षालि रचितं चानुलेपनम्‌ ।

इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ॥१३०॥


नाहं विप्रो न च नरपतिर्नापि वैश्यो न शूदो

नाहं वर्णी न च गृहपतिर्नो वनस्थो यतिर्वा ।

किन्तु प्रोद्यन्निखिलपरमान्दपूर्णामृताब्धे -

र्गोपीभर्तुः पदकमलयोर्दासदासानुदासः ॥१३१॥


कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते

तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् ।

ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते

दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥१३२॥


नवनीलमेघरुचिरः परः पुमानवनीमवाप्य धृतगोपविग्रहः ।

महनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्त्यते ।

युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।

शून्यायितं जगत्सर्वं गोविन्दविरहेण मे ॥१३४॥


अयि नन्दतनूज किङकरं पतितं मां विषमे भवाम्बुधौ ।

कृपया तव पादपङकजस्थितधूलीसदृशं विचिन्तय ॥१३५॥


वंशीविभूषितकरान्नवनीरदाभात्

पीताम्बरादरुणविम्बफलाधरोष्ठात् ।

पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्

कृष्णात्परं किमपि तत्त्वमहं न जाने ॥१३६॥


ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं

ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।

अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं

कालिन्दीपुलिनेषु यत्किमपि तन्नीलं महो धावति ॥१३७॥


चिदानन्दाकारं जलदरुचि सारं श्रुतिगिरां

व्रजस्त्रीणां हारं भवजलधिपारं कृतधियाम् ।

विहन्तुं भूभारं विदधदवतारं मुहुरहो

महो बारम्बारं भजत कुशलारम्भकृतिनः ॥१३८॥


चर्वयत्‍यनिशं मर्म मम मायानिशाचरी ।

क्वासि हे पूतनाघातिन् मायाकुहकनाशक ॥१३९॥


त्वं पापितारकः कृष्ण भवसागरनाविकः ।

त्राहि मां भवभीमाब्धेस्तवैव शरणागतम् ॥१४०॥


किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।

विमुखे त्वयि गोविन्द हा हा पापी हतो हतः ॥१४१॥


रे रे मानसभृङग मा कुरु मुधा झङकारकोलाहलं

निःशब्दं हरिपादफुल्लकमले माध्वीकमास्वादय ।

तस्मिन् सर्वतृषापहारिणि चिदानन्दे मरन्दे सकृ-

न्निष्पीते क्व नु ते प्रयास्यति लयंसाहङ्‌कृतिर्झङ्‌कृतिः ॥१४२॥


येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां

येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा ।

येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौ

धिक्तान्धिक्तान्धिगेतान्कथर्यात नियतं कीर्तनस्थो मृदङगः ॥

जीर्णा तरी सरिति नीरगभीरधारा

बाला वयं सकलमित्थमनर्थहेतुः ।

विश्वासबीजमिदमेव कृशोदरीणां

यन्माधवस्त्वमसि सम्प्रति कर्णधारः ॥१४४॥


श्रीकृष्णनामा जयतीह शश्वत् कश्चित्स सच्चिन्मयनीलिमा मे ।

यत्रानुरक्तं धवलत्वमेति स्थैर्यंच चित्तं मलिनं चलं च ॥१४५॥


नमस्तस्मै परेशाय कृष्णायाद्भुतकर्मणे ।

धूलिधूसरिताङगाय नमस्तैजसमूर्तये ॥१४६॥


नमः श्रीद्वारकेशाय गाश्च चारयते नमः ।

राजराजेश्वरायाथ पार्थसारथये नमः ॥१४७॥


नमोऽस्तु भीष्मभीष्माय प्रह्लादाह्लादकाय च ।

परःसहस्त्रपत्नीभिः सेविताय जितात्मने ॥१४८॥


क्वायं क्षुद्रमतिर्दासः क्व स्वामी गुणवारिधिः ।

मुहुर्मुहुर्निमग्नं मां क्षमस्व करुणानिधे ॥१४९॥


शुद्धयति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते ।

वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥१५०॥


यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे ।

प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥१५१॥


स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।

प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥१५२॥


स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् ।

विविधोपचारकरणैर्हरिदासैः सङगमः शश्वत् ॥१५३॥


कृष्णकथासंश्रवणे महोत्सवः सत्यवादश्च ।

परयुवतौ द्रविणे वा परापवादे पराङ्‌मुखता ॥१५४॥


ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।

यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता ॥१५५॥


एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना ।

समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥१५६॥


स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ ।

मानसपूजाभ्यासो विजननिवासेऽपितात्पर्यम् ॥१५७॥


सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् ।

अद्रोहो भूतगणे ततस्तु भुतानुकम्पा स्यात् ॥१५८॥


प्रमितयदृच्छालाभे सन्तुष्टिर्दारपुत्रादौ ।

ममताशून्यत्वमतो निरहङकारत्वमक्रोधः ॥१५९॥


मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता ।

सुखदुःखशीतलोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥१६०॥


निद्राहारविहारेष्वनादरः सङगराहित्यम् ।

वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥१६१॥


केनापि गीयमाने हरिगीते वेणुनादे वा ।

आनन्दाविर्भावो युगपत्स्याद्‌धृष्टसात्त्विकोद्रेकः ॥१६२॥


तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।

स्थिरतां याते तस्मिन् याति मदोन्मत्तदन्तिदशाम् ॥१६३॥


जन्तुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः ।

एतादृशी दशा चेत्तदैव हरिदासवर्यः स्यात् ॥१६४॥


यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये ।

कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥१६५॥


तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्‍वम् ।

पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङगम् ॥१६६॥


आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् ।

मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥१६७॥


वलयाङगुलीयकाद्यानुज्ज्वलयन्तं स्वलङकारान् ।

गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥१६८॥


गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि ।

भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥१६९॥


मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् ।

मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥१७०॥


सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः ।

सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥१७१॥


कन्दर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् ।

त्यक्‍त्वा कमन्यविषयं नेत्रयुगं द्रष्‍टुमुत्सहते ॥१७२॥


पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्‍त्वा ।

श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं वहति ॥१७३॥


दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके ।

क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥१७४॥


भूतेष्वन्तर्यामी ज्ञानमयः सच्चिदानन्दः ।

प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥१७५॥


साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्विम्बम् ।

विश्‍वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥१७६॥


यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः ।

सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः ॥१७७॥


ब्रह्माण्डानि बहूनि पङकजभवान् प्रत्यण्डमत्यद्भुतान्

गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः ।

शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात्

कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥१७८॥


कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः

सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ।

प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि

निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥१७९॥


नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता-

मौत्कण्ठयप्रबलप्रभञ्जनभरैराकर्षितो वर्षति ।

विज्ञानामृतमद्भुतं निजवचोधाराभिरारादिदं

चेतश्चातक चेन्न वाञ्छसि मृषा क्रान्तोऽसि सुप्तोऽसि किम् ॥१८०॥


चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं

तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।

विश्रान्तिर्हितमप्यहो क्व नु तयोर्मध्ये तदालोच्यतां

युक्‍त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम ॥१८१॥


पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धनं

भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया ।

नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ

सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥१८२॥


काम्योपासनयार्थयन्त्यनुदिनं केचित्फलं स्वेप्सितं

केचित्स्वर्गमथापवर्गमपरे योगादियज्ञादिभिः ।

अस्माकं यदुनन्दनाङ्‌घ्रियुगलध्यानावधानार्थिनां

किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥१८३॥


आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः ।

लोहमपि चुम्बकाश्मा संमुखमात्रं जडं यद्वत् ॥१८४॥


अयमुत्तमोऽयमधमो जात्या रुपेण संपदा वयसा ।

श्‍लाघ्योऽश्‍लाघ्यो वेत्‍थं न वेत्ति भगवाननुग्रहावसरे ॥१८५॥


अन्तःस्वभावभोक्ता ततोऽन्तरात्मा महामेघः ।

खदिरश्चम्पक इव वा प्रवर्षणं किं विचारयति ॥१८६॥


यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ।

भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥१८७॥


सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् ।

केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥१८८॥


यद्यपि गगनं शून्यं तथापि जलदामृतांशुरुपेण ।

चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥१८९॥


तद्वद्रजतां पुंसां दृग्वाङ्‌मनसामगोचरोऽपि हरिः ।

कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥१९०॥