Wednesday, February 23, 2011


एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव ।

एको मन्त्रस्तस्य नामानि यानि कर्माप्येकंतस्य देवस्य सेवा ॥१॥


लावण्यामृतवन्यां मधुरिमलहरीपरीपाकः ।

कारुण्यानां हृदये कपटकिशोरः परिस्फुरतु ॥२॥


श्रवसोः कुवलयमक्ष्णोरञ्जनमुरसो महेन्द्रमणिदाम ।

वृन्दावनरमणीनां मण्डनमखिलं हरिर्जयति ॥३॥


श्रृणु सखि कौतुकमेकं नन्दनिकेताङगणे मया दृष्टम् ।

गोधूलिधूसराङगो नृत्यति वेदान्तसिद्धान्तः ॥४॥


प्रणयपटुपिपासापीडितानद्य प्राणान्

क्षणमपि कथयाहं हा कथं सान्त्वयानि ।

असहनिजविकुण्ठाः कण्ठमुत्कण्ठयाप्ता

ननु तव मुखमिन्दुं द्रष्टुमेते त्वरन्ति ॥५॥


गोपबालसुन्दरीगणावृतं कलानिधिं

रासमण्डलीविहारकारिकामसुन्दरम् ।

पद्मयोनिशङकरादिदेववृन्दवन्दितं

नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥६॥


किं पिबन्ति मम पदरसं मुनयः सुधां विहाय ।

ज्ञातुमिदं बालो हरिः स्वपदं मुखे निनाय ॥७॥


यमुनापुलिने समुत्क्षिपन् नटवेषः कुसुमस्य कन्दुकम् ।

न पुनः सखि लोकयिष्यते कपटाभीरकिशोरचन्द्रमाः ॥८॥


ब्रह्मन्नत्र पुरद्विषा सह पुरः पीठे निषीद क्षणं

तूष्णीं तिष्ठ सुरेन्द्र चाटुभिरलं वारीश दूरीभव ।

एते द्वारि मुहुः कथं सुरगणाः कुर्वन्ति कोलाहलं

हन्त द्वारवतीपतेरवसरो नाद्यापि निष्पद्यते ॥९॥


ये मुक्तावपि निःस्पृहाः प्रतिपदप्रोन्मीलदानन्ददां

यामास्थाय समस्तमस्तकमणिं कुर्वन्ति यं स्वे वशे ।

तान् भक्तानपि तां च भक्तिमपि तं भक्तिप्रियं श्रीहरिं

वन्दे सन्ततमर्थयेऽनुदिवसं नित्यं शरण्यं भजे ॥१०॥


हे कृष्ण कृष्ण भगवन् मम चित्तभृङगो

यायात् कदापि भवतश्चरणारविन्दे ।

देहादिपुष्पविरतः कृपया तदानीं

वीक्षस्व वामनयनेन निजं पदाब्जम् ॥११॥


पथि धावन्निह पतितो रोदिष्यम्बाकरावलम्बाय ।

पतितोद्धारणसमये किन्न स्मरसि त्वमात्मानम् ॥१२॥


विहाय पीयूषरसं मुनीश्वरा ममाङ्‌घ्रिराजीव रसं पिबन्ति किम् ।

इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु नः ॥१३॥


अयि दीनदयार्द्र नाथ हे मथुरानाथ कदावलोक्यसे ।

हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥१४॥


न प्रेमगन्धोऽस्ति दरोऽपि मे हरौ

क्रन्दामि सौभाग्यभरं प्रकाशितुम् ।


वंशीविलास्याननलोकनं विना

बिभर्मि यत्प्राणपतङगकान् वृथा ॥१५॥


न जाने सम्मुखायाते प्रियाणि वदति प्रिये ।

प्रयान्ति मम गात्राणि श्रोत्रतां किमु नेत्रताम् ॥१६॥


प्रिय इति गोपवधूभिः शिशुरिति वृद्धैधीश इति देवैः ।

नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिभिर्देवः ॥१७॥


नवनीरदसुन्दरनीलवपुंशितिकण्ठशिखण्डितभालशुभम् ।

कमलाञ्चितखञ्जननेत्रयुगं तुलसीदलदामसुगन्धवपुम् ।

जगदादिगुरुं व्रजराजसुतं प्रणमामि निरन्तरश्रीरमणम् ॥१८॥


नीतं यदि नवनीतं नीतं नीतं किमेतेन ।

आतपतापितभूमौ माधव मा धाव मा धाव ॥१९॥


पादाश्रितानां च समस्तचौरं श्रीराधिकाया हृदयस्य चौरम् ।

नीलाम्बुजश्यामलकान्तिचौरं चौराग्रगण्यं पुरुषं नमामि ॥२०॥


वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे

गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि ।

आभीरीणां मधुरमुरलीनादसम्मोहितानां

मध्ये क्रीडन्नवतु सततं नन्दगोपालबालः ॥२१॥


कनककमलमालः केशिकंसादिकालः

समरभुवि करालः प्रेमबापीमरालः ।

निखिलभुवनपालः पुण्यवल्लीप्रवालो

वसतु हृदि मदीये सैव गोपालबाल ॥२२॥


परमानन्दसन्दोहकन्दं भद्रकरं सताम् ।

इन्दिरामन्दिरं वन्दे गोविन्दं नन्दनन्दनम् ॥२३॥


स्मितविकसितवक्‍त्रं रत्नपाणौ सुवेणुं

सुललितमणिहारं वारिजास्यं वदान्यम् ।

तरुणजलदनीलं चारुगोविन्दवृन्दैः

परमपुरुषमाद्यं बालकृष्णं नमामि ॥२४॥


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्‌गुरुम् ॥२५॥


मूकं करोति वाचालं पङंगु लङघयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥२६॥


सजलजलदकालं प्रेमवापीमराल-

मभिनववनमालं क्षेमवल्लीप्रवालम् ।

भुवननलिननालं दानवानां करालं

निखिलमनुजपालं नौमि तंनन्दबालम् ॥२७॥


दोर्भ्यां दोर्भ्यां व्रजन्तं व्रजसदनजनाह्वानतः प्रोल्लसन्तं

मन्दं मन्दं हसन्तं मधुमधुरवचो मेति मेति ब्रुवन्तम् ।

गोपालीपाणितालीतरलितवलयध्वानमुग्धान्तरालं

वन्दे तं देवमिन्दीवरविमलदलश्यामलं नन्दबालम् ॥२८॥


पुञ्जीभूतं प्रेम गोपाङगनानां मूर्तीभूतं भागधेयं यदूनाम् ।

एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे सन्निधत्ताम् ॥२९॥


तटी प्रस्फुटीनीपवाटीकुटीरे वधूटीनटीदृक्पुटीपीयमानम् ।

समालिप्तपाटीरवक्षस्तटीकं हरिद्राभराजत्पटीकं नमामि ॥३०॥


कनकरुचिदुकूलश्चारुबर्हावचूलः

सकलनिगमसारः कोऽपि लीलावतारः ।

त्रिभुवनसुखकारी शैलधारी मुरारिः

परिकलितरथाङगो मङगलं नस्तनोतु ॥३१॥


कदा वृन्दारण्ये विमलयमुनातीरपुलिने

चरन्तं गोविन्दं हलधरसुदामादिसहितम् ।

अये कृष्ण स्वामिन् मधुरमुरलीवादन विभो

प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥३२॥


नन्दनन्दनपदारविन्दयोः स्यन्दमानमकरन्दबिन्दवः ।

सिन्धवः परमसौख्यसम्पदां नन्दयन्तु हृदयं ममानिशम् ॥३३॥


तत्कैशोरं तच्च वक्‍त्रारविन्दं तत्कारुण्यं ते च लीलाकटाक्षाः ।

तत्सौन्दर्यं सा च मन्दस्मित श्रीः सत्यं सत्यं दुर्लभं दैवतेषु ॥३४॥


हस्तमुत्क्षिप्य यातोऽसि बलात् कृष्ण किमद्भुतम् ।

हृदयाद्यपि निर्यासि पौरुषं गणयामि ते ॥३५॥


गोपाल इति मत्वा त्वां प्रचुरक्षीरवाञ्छया ।

श्रितो मातुः स्तनक्षीरमपि लब्धुं न शक्रुयाम् ॥३६॥


क्षीरसारमपहृत्य शङकया स्वीकृतं यदि पलायनं त्वया ।

मानसे मम घनान्धतामसे नन्दनन्दन कथं न लीयसे ॥३७॥


रत्नाकरस्त्व गृहं गृहिणी च पद्मा किं देयमस्ति भवते जगदीश्वराय

आभीरवामनयनाहृतमानसाय दत्तं मनो यदुपते कृपया गृहाण ॥


आनीता नटवन्मया तव पुरः श्रीकृष्ण या भूमिका

व्योमाकाशखखाम्बराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि ।

प्रीतो यद्यसि ताः समीक्ष्य भगवन् तद् वाञ्छितं देहि मे

नो चेद् ब्रूहि कदापि मानय पुनर्मामीदृशीं भूमिकाम् ॥३९॥


शरीरं सुरुपं ततो वै कलत्रं यशश्वारु चित्रं धनं मेरुतुल्यम् ।

यशोदाकिशोरे मनो वै न लग्नं ततः किं ततः किं ततः किं ततः किम्

न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम्

यशोदाकिशोरे मनो वै न लग्नं ततः किं ततः किं ततः किंततःकिम्

षडङगादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति ।

यशोदाकिशोरे मनो वै न लग्नं ततः किंततः किं ततः किंततः किम्

रे चित्त चिन्तय चिरं चरणौ मुरारेः

पारं गमिष्यसि यतो भवसागरस्य ।

पुत्राः कलत्रमितरे न हि ते सहायाः

सर्वं विलोकय सखे मृगतृष्णिकाभम् ॥४३॥


नन्दनन्दनपदारविन्दयोर्मन्दमन्दमनुजायतां मनः ।

मुञ्च मुञ्च विषयेषु वासनाः किञ्च किञ्च तदुदीर्यतां वचः ॥४४॥


अहङकार क्वापि व्रज वृजिन हे मा त्वमिह भू-

रभूमिर्दर्पाणामहमपसर त्वं पिशुन हे ।

अये क्रोध स्थानान्तरमनुसरानन्यमनसां

त्रिलोकीनाथो नो हृदि वसतु देवो हरिरसौ ॥४५॥


का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते

नो चेदर्भकजीवनाय जननीस्तन्य्म कथं निःसरेत् ।

इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं

त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते ॥४६॥


या चिन्ता भुवि पुत्रपौत्रभरणव्यापारसम्भाषणे

या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते ।

सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं

का चिन्ता यमराजभीमसदनद्वारप्रयाणे प्रभो ॥४७॥


जीर्णा तरिः सरिदियं च गभीरनीरा

नक्राकुला वहति वायुरतिप्रचण्डः ।

तार्याः स्त्रियश्च शिशवश्च तथैव वृद्धाः

तत्कर्णधारभुजयोर्बलमाश्रयामः ॥४८॥


सिन्धुर्बिन्दुमहो प्रयच्छति न हि स्वैरी च धाराधरः

सङकल्पेन विना ददाति न कदाप्यल्पश्च कल्पद्रुमः ।

स्वच्छन्दोऽपि विधुः सुधावितरणे रात्रिन्दिवापेक्षते

दाता कोऽपि न दृश्यते विनियमं श्रीकृष्णचन्द्रं विना ॥४९॥


तत्प्रेमभावरसभक्तिविलासनाम

हारेषु चेत् खलु मनः किमु कामिनीभिः ।

तल्लोकनाथपदपङकजधूलिमिश्र-

लिप्‍तं वपुः किमु वृथागुरुचन्दनाद्यैः ॥५०॥


मृद्वीका रसिता सिता समशिता स्फीतं च पीतं पयः

स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।

सत्यं ब्रूहि मदीयजीव भवता भूयो भवे भ्राम्यता

कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥५१॥


चूडाचुम्बितचारुचन्द्रकचमत्कारव्रजभ्राजितं

दिव्यं मञ्जुमरन्दपङकजमुखभ्रूनृत्यदिन्दीवरम् ।

रज्यद्वेणुकमूलरोकविलसद्विम्बाधरौष्ठं मुहुः

श्रीवृन्दावनकुञ्जकेलिललितं राधाप्रियं प्रीणये ॥५२॥


वृन्दावृन्दमरन्दबिन्दुनिचयस्पन्देन सन्दीपिता-

द्गन्धाद्यस्य सनन्दनादिरमृतानन्देऽपि मन्दादरः ।

मोक्षानन्दथुनिन्दिसेवनसुखस्वाच्छन्द्यसंदोहदं

तद्वन्देमहि नन्दनन्दनपदद्वन्द्वारविन्दं मुहुः ॥५३॥


वन्दे नवघनश्यामं पीतकौशेयवाससम् ।

सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥५४॥


क्वाननं क्व नयनं क्व नासिका क्व श्रुतिः क च शिखेति केलितः ।

तत्र तत्र निहिताङगुलीदलो वल्लवीकुलमनन्दयत्प्रभुः ॥५५॥


मधुरमधुरमेतन्मङगलं मङगलानां

सकलनिगमवल्लीसत्फलं चित्स्वरुपम् ।

सकृदपि परिगीतं श्रद्धया हेलया वा

भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥५६॥


गोविन्दं गोकुलानन्दं गोपालं गोपवल्लभम् ।

गोवर्द्धनधरं धीरं तं वन्दे गोमतीप्रियम् ॥५७॥


हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते

हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।

हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां

हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥५८॥


इमां घनश्रेणिमिवोन्मुखः शिखीचकोरकः कार्तिकचन्द्रिकामिव ।

रथाङगनामा तरणेरिव त्विष कृष्णच्छविं वीक्ष्य न कः प्रमोदते ॥५९॥


रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्

वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया ।

सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितै-

रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥६०॥


इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं

मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।

माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं

चेतोवृत्तिरियं सदा प्रियवर त्वां द्रष्टुमुत्कण्ठते ॥६१॥


इन्दीवरदलश्याममिन्दिरानन्दकन्दलम्

वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥६२॥


यावन्निरञ्जनमजं पुरुषं जरन्तं

सञ्चिन्तयामि हृदये जगति स्फुरन्तम् ।

तावद्‌बलात्स्फुरति हन्त हृदन्तरे मे

गोपस्य कोऽपि शिशुरञ्जनपुञ्जमञ्जुः ॥६३॥


करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

बटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥६४॥


गोविन्दं गोकुलानन्दं वेणुवादनतत्परम् ।

राधिकारञ्जनं श्यामं वन्दे गोपालनन्दनम् ॥६५॥


निरुद्धं वाष्पान्तः कथमपि मया गद्गदगिरा

ह्विया सद्यो गूढा पथि विघटितो वेपथुरपि ।

गिरिद्रोण्यां वेणौ ध्वनति निपुणैरिङगितनये

तथाप्यूहां चक्रे मम मनसि रागः परिजनैः ॥६६॥


कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रे वरमौक्तिकं करतले वेणुः करे कङकणम् ।

सर्वाङगे हरिचन्दनं सुललितं कण्ठे च मुक्तावली

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥६७॥


निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां

कमलविपिनवीथीगर्वसर्वंकषाभ्याम् ।

प्रणमदभयदानप्रौढिगाढोद्धताभ्यां

किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥६८॥


प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां

प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।

प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां

प्रभवतु हृदये नः प्राणनाथः किशोरः ॥६९॥


लीलायताभ्यां रसशीतलाभ्यां

लीलारुणाभ्यां नयनाम्बुजाभ्याम् ।

आलोकयेदद्‌भुतविभ्रमाभ्यां

काले कदा कारुणिकः किशोरः ॥७०॥


त्रिभुवनसरसाभ्यां दीप्तभूषापराभ्यां

दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।

अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-

मयमयमनुकूजद्वेणुरायाति देवः ॥७१॥


बर्हं नाम विभूषणं बहु मतं वेषाय शेषैरलं

वक्‍त्रं दन्तविशेषकान्तिलहरीविन्यासधन्याधरम् ।

शीलैरल्पधियामगम्यविभवैः श्रृङगारभङगीमयं

चित्रं चित्रमहो विचित्रमहहो चित्रं विचित्रं महः ॥७२॥


माधुर्यादपि मधुरं मन्मथतातस्य किमपि कैशोरम् ।

चापल्यादपि चपलं चेतो मम हरति किं कुर्मः ॥७३॥


प्रेमदं च मे कामदं च मे वेदनं च मे वैभवंच मे ।

जीवनंच मे जीवितंच मे दैवतं च मे देव नापरम् ॥७४॥


उपासतामात्मविदः पुराणं परं पुमांसं निहितं गुहायाम् ।

वयं यशोदाशिशुबाललीलाकथासुधासिन्धुषु लीलयामः ॥७५॥


ते ते भावाः सकलजगतीलोभनीयप्रभावा

नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।

वीणावेणुक्कणितलसितस्मरेवक्‍त्रारविन्दा-

न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुपूरात् ॥७६॥


पर्याकुलेन नयनान्तविजृम्भितेन

वक्‍त्रेण कोमलदरालितविभ्रमेण ।

मन्त्रेण मञ्जुलतरेण च जल्पितेन

नन्दस्य हन्त तनयो हृदयं धुनोति ॥७७॥


लीलाटोपकटाक्षनिर्भरपरिष्वङगप्रसङगाधिक-

प्रीते रीतिविभङगसङगरलसद्वेणुप्रणादामृते ।

राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा

माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥७८॥


विहाय कोदण्डशरान्मुहूर्तं गृहान पाणौ मणिचारुवेणुम् ।

मायूरबर्हंच निजोत्तमाङगेसीतापते त्वां प्रणमामि पश्चात् ॥७९॥


कालिन्दीपुलिने तमालनिविडच्छाये पुरः सञ्चर-

त्तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्‍नाति यः ।

वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-

प्रान्ते गाश्च विलोकयन् प्रतिपलं तं बालमालोकये ॥८०॥


मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया ।

हे रमारमण वार्यतामसौ कः सहेत निजवेश्मलङघनम् ॥८१॥


अयं क्षीराम्भोधेः पतिरिति गवां पालक इति

श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।

अनेन प्रत्यूहो व्यरचि सततं येन जननी-

स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥८२॥


नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा-

ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।

अवतु विततगात्रस्तोत्रसंस्यूतमौलि-

र्दशनविधृतरश्मिर्देवकी पुण्यराशिः ॥८३॥


भक्तिस्त्वयि स्थिरतरा भगवन्यदि स्या-

द्दैवेन नः फलितदिव्यकिशोरवेषे ।

मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मा-

न्धर्मार्थकामगतयः समयप्रतीक्षाः ॥८४॥


अङगनामङगनामन्तरे माधवो माधवं माधवं चान्तरेणाङगना ।

इत्थमाकल्पिते मण्डले मध्यगः संजगों वेणुना देवकीनन्दनः ॥

बालिकातालिकाताललीलालयासंगसंदर्शितभ्रूलताविभ्रमः ।

गोपिकागीतदत्तावधानः स्वयं संजगौ वेणुना देवकीनन्दनः ॥

मध्येगोकुलमण्डलं प्रतिदिशं चाम्भारवोज्जृम्भिते

प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नू पूरम् ।

भाले बालविभूषणं कटिरनत्सत्किङकिणीमेखलं

कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥८७॥


कामं सन्तु सहस्त्रशः कतिपये सारस्य धौरेयकाः

कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।

नैवैतैर्विवदामहे न च वयं देव प्रियं ब्रूमहे

यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता ॥८८॥


यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवाम गाहते

विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्‍टुमुत्कण्ठते ।

उत्तंसाय तमालपल्लवमितिच्छिन्दन्ति यां गोपिकाः

कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥८९॥


फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङकमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसङघावृतं

गोविन्दं कलवेणुवादनपरं दिव्याङगभूषं भजे ॥९०॥


परमिममुपदेशमाद्रियध्वं निगमवनेषु नितान्तखेदखिन्नाः ।

विचिनुत भवनेषु वल्लवीनामुपनिषदर्थमुलूखले निबद्धम् ॥९१॥


तमसि रविरिवोद्यन्मज्जतामम्बुराशौ

प्लव इव तृषितानां स्वादुवर्षीव मेघः ।

निधिरिव निधनानां दीर्घतीव्रामयानां

भिषगिव कुशलं मे दातुमायाति शौरिः ॥९२॥


चिकुरं बहुलं विरलभ्रमरं मृदुलं वचनं विपुलं नयनम् ।

अधरं मधुरं ललितं वदनं चपलं चरितं च कदानुभवे ॥९३॥


मुग्धं स्निग्धं मधुरमुरलीमाधुरीधीरनादैः

कारंकारंकरणविवशं गोकुलव्याकुलत्वम् ।

श्यामं कामं युवजनमनोमोहनं मोहनाङंग

चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥९४॥


देवकीतनयपूजनपूतः पूतनारिचरणोदकधूतः ।

यद्यहं स्मृतधनञ्जयसूतः किं करिष्यति स मे यमदूत ॥९५॥


अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं

किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम् ।

आलोलाङगुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा

मूले कल्पतरोस्त्रिभङगललितं ध्यायेज्जगन्मोहनम् ॥९६॥


हे देव हे दयित हे भुवनैकबन्धो

हे कृष्ण हे चपल हे करुणैकसिन्धो ।

हे नाथ हे रमण हे नयनाभिराम

हा हा कदानु भवितासि पदं दृशोर्मे ॥९७॥


वन्दे मुकुन्दमरविन्ददलायताक्षं

कुन्देन्दुशङखदशनं शिशुगोपवेषम् ।

इन्द्रादिदेवगणवन्दितपादपीठं

वृन्दावनालयमहं वसुदेवसूनुम् ॥९८॥


जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं

पाणिद्वन्द्वसमर्चयाच्युतकथां श्रोत्रद्वयं त्वं श्रृणु ।

कृष्णं लोकय लोचनद्वय हरेर्गच्छाङि‍घ्रयुग्मालयं

जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्द्धन्नमाधोक्षजम् ॥९९॥


हे लोकाः श्रृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां

योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।

अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां

तत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥१००॥


शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं

संसारोच्छेदमन्त्रं समुचिततमसः सङघनिर्वाणमन्त्रम् ।

सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं

जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥१०१॥


व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं

दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।

भक्त्यात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं

श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥१०२॥


श्रृण्वञ्जनार्दनकथागुणकीर्तनानि

देहे न यस्य पुलकोद्‌गमरोमराजिः ।

नोत्पद्यते नयनयोर्विमलाम्बुमाला

धिक् तस्य जीवितमहो पुरुषाधमस्य ॥१०३॥


अलमलमलमेका प्राणिनां पातकानां

निरसनविषये वा कृष्णकृष्णेति वाणी ।

यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा

करतलकलिता सा मोक्षसाम्राज्यलक्ष्मीः ॥१०४॥


कृष्ण त्वदीयपदपङकजपञ्जरान्ते

अद्यैव मे विशतु मानसराजहंसः ।

प्राणप्रयाणसमये कफवातपित्तैः

कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥१०५॥


कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः ।

जलं भित्त्वा यथा पद्यं नरकादुद्धराम्यहम् ॥१०६॥


सत्यं ब्रवीमि मनुजाः स्वयमूर्ध्वबाहु-

र्यो मां मुकुन्द नरसिंह जर्नादेनेति ।

जीवो जपत्यनुदिनं मरणे रणे वा

पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥१०७॥


गोकोटिदानं ग्रहणेषु काशीप्रयागगङगायुतकल्पवासः ।

यज्ञायुतं मेरुसुवर्णदानं गोविन्दनाम्ना न कदापि तुल्यम् ॥१०८॥


वासुदेवं परित्यज्य येऽन्यं देवमुपासते ।

तृषिता जाह्नवीतीरे कूपं वाञ्छन्ति दुर्भगाः ॥१०९॥


बिभ्रद्वेणुं जठरपटयोः श्रृङगवेत्रे च कक्षे

वामे पाणौ मसृणकवलं तत्फलान्यङ्‌गुलीषु ।

तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः

स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥११०॥


नौमीडय तेऽभ्रवपुषे तडिदम्बराय

गुञ्जावतंसपरिपिच्छलसन्मुखाय ।

वन्यस्त्रजे कवलवेत्रविषाणवेणु-

लक्ष्मश्रिये मृदुपदे पशुपाङगजाय ॥१११॥

तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम्‌ ।

तावन्मोहोऽङ्‌घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥११२॥


समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः ।

भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम्‌ ॥११३॥


बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम्‌ ।

रन्ध्रान्वेणोरधरसुधया पूरयन्गोपवृन्दै-

र्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥११४॥


अहो बकीयं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं कंवा दयालुं शरणं व्रजेम ॥११५॥


आहुश्च ते नलिननाभ पदारविन्दं

योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं

गेहंजुषामपि मनस्युदियात्सदा नः ॥११६॥


अक्षण्वतां फलमिदं न परं विदामः

सख्यः पशूननु विवेशयतोर्वयस्यैः ।

वक्‍त्रं व्रजेशसुतयोरनुवेणुजुष्‍टं

यैर्वा निपीतमनुरक्तकटाक्षमोक्षम्‌ ॥११७॥


नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥११८॥


गोविन्द द्वारिकावासिन्‌ कृष्ण गोपीजनप्रिय ।

कौरवैः परिभूतां मां किं न जानासि केशव ॥११९॥


हे नाथ हे रमानाथ व्रजनाथार्तिनाशन ।

कौरवार्णवमग्नां मामुद्धरस्व जनार्दन ॥१२०॥


श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो

द्रुमो भूमिश्चिन्तामणिगणमयी तोयममृतम्‌ ।

कथा गानं नाटयं गमनमपि वंशी प्रियसखी

चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ॥१२१॥


यस्यैकनिःश्वसितकालमथावलम्ब्य

जीवन्ति लोमविलजा जगदण्डनाथाः ।

विष्णुर्महान्स इह यस्य कलाविशेषो

गोविन्दमादिपुरुषं तमहं भजामि ॥१२२॥


सान्द्रानन्दपुरन्दरादिदिविषद्‌वृन्दैरमन्दादरा-

दानम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दीवरम्‌ ।

स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनी मेदुरं

श्रीगोविन्दपदारविन्दमशुभस्यन्दाय वन्दामहे ॥१२३॥


राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली-

नेपथ्योचितनीलरत्‍नमवनीभारावतारक्षमः ।

स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं

कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥१२४॥


वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते

दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते

म्लेच्छान्‌ मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥

रासे चञ्चलतां गतस्य ललनावृन्दस्य मध्ये हरी

राजत्येष कथं भवेदुपमितिस्तादृङ्‌ न भावो भुवि ।

चेत्स्याच्चञ्चलता गता विपुलता विद्युत्सु संनर्तनं

तन्मध्ये जलदस्य नर्तनमतिः शोभा भवेत्तादृशी ॥१२६॥


श्रीकृष्णस्य मनोज्ञनादमुरलीं विम्बाधरं श्रीमुखं

सम्पूर्णाकृतिमच्छशाङकललितं हृत्कौस्तुभाध्यासितम्‌ ।

पादौ नूपुरमञ्जुशिञ्जितनमत्कैवल्यनिन्दाक्षम-

स्वादौ तप्तसुवर्णकान्ति वसनं साक्षात्करिष्ये कदा ॥१२७॥


श्रीकृष्ण श्याम राधाधव यदुनृपते यामुनप्रान्तचारिन्‌

वृन्दारण्यैकवासिन्मधुरशशिमुख स्निग्धमूर्ते व्रजेश ।

वंशीवाद्योचित स्त्रग्भरपरिमलयुक्‌पिच्छसङ्‌क्रान्तचूड

प्रत्यङगश्रीनिवास प्रदिश मनसि मे स्वीयभक्तिप्रकाशम्‌ ॥१२८॥


कालिन्दीकूलकेलिः कलितकुमुदिनीकान्तकान्तिः कृपालुः

केशिक्रान्तासुकर्षी वककुलकलनः कालियाकालनोत्कः ।

काव्याङकक्रान्तकर्मा कुरुकुलकषणः कालकण्ठीकृताङगः

कृष्णः कारुण्यकर्मा भवतु मयि कृपादृष्‍टिरक्लिष्‍टकर्मा ॥१२९॥


इदानीमङगमक्षालि रचितं चानुलेपनम्‌ ।

इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ॥१३०॥


नाहं विप्रो न च नरपतिर्नापि वैश्यो न शूदो

नाहं वर्णी न च गृहपतिर्नो वनस्थो यतिर्वा ।

किन्तु प्रोद्यन्निखिलपरमान्दपूर्णामृताब्धे -

र्गोपीभर्तुः पदकमलयोर्दासदासानुदासः ॥१३१॥


कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते

तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् ।

ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते

दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥१३२॥


नवनीलमेघरुचिरः परः पुमानवनीमवाप्य धृतगोपविग्रहः ।

महनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्त्यते ।

युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।

शून्यायितं जगत्सर्वं गोविन्दविरहेण मे ॥१३४॥


अयि नन्दतनूज किङकरं पतितं मां विषमे भवाम्बुधौ ।

कृपया तव पादपङकजस्थितधूलीसदृशं विचिन्तय ॥१३५॥


वंशीविभूषितकरान्नवनीरदाभात्

पीताम्बरादरुणविम्बफलाधरोष्ठात् ।

पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्

कृष्णात्परं किमपि तत्त्वमहं न जाने ॥१३६॥


ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं

ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।

अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं

कालिन्दीपुलिनेषु यत्किमपि तन्नीलं महो धावति ॥१३७॥


चिदानन्दाकारं जलदरुचि सारं श्रुतिगिरां

व्रजस्त्रीणां हारं भवजलधिपारं कृतधियाम् ।

विहन्तुं भूभारं विदधदवतारं मुहुरहो

महो बारम्बारं भजत कुशलारम्भकृतिनः ॥१३८॥


चर्वयत्‍यनिशं मर्म मम मायानिशाचरी ।

क्वासि हे पूतनाघातिन् मायाकुहकनाशक ॥१३९॥


त्वं पापितारकः कृष्ण भवसागरनाविकः ।

त्राहि मां भवभीमाब्धेस्तवैव शरणागतम् ॥१४०॥


किं करोमि क्व गच्छामि कं वा शरणमाश्रये ।

विमुखे त्वयि गोविन्द हा हा पापी हतो हतः ॥१४१॥


रे रे मानसभृङग मा कुरु मुधा झङकारकोलाहलं

निःशब्दं हरिपादफुल्लकमले माध्वीकमास्वादय ।

तस्मिन् सर्वतृषापहारिणि चिदानन्दे मरन्दे सकृ-

न्निष्पीते क्व नु ते प्रयास्यति लयंसाहङ्‌कृतिर्झङ्‌कृतिः ॥१४२॥


येषां श्रीमद्यशोदासुतपदकमले नास्ति भक्तिर्नराणां

येषामाभीरकन्याप्रियगुणकथने नानुरक्ता रसज्ञा ।

येषां श्रीकृष्णलीलाललितरसकथासादरौ नैव कर्णौ

धिक्तान्धिक्तान्धिगेतान्कथर्यात नियतं कीर्तनस्थो मृदङगः ॥

जीर्णा तरी सरिति नीरगभीरधारा

बाला वयं सकलमित्थमनर्थहेतुः ।

विश्वासबीजमिदमेव कृशोदरीणां

यन्माधवस्त्वमसि सम्प्रति कर्णधारः ॥१४४॥


श्रीकृष्णनामा जयतीह शश्वत् कश्चित्स सच्चिन्मयनीलिमा मे ।

यत्रानुरक्तं धवलत्वमेति स्थैर्यंच चित्तं मलिनं चलं च ॥१४५॥


नमस्तस्मै परेशाय कृष्णायाद्भुतकर्मणे ।

धूलिधूसरिताङगाय नमस्तैजसमूर्तये ॥१४६॥


नमः श्रीद्वारकेशाय गाश्च चारयते नमः ।

राजराजेश्वरायाथ पार्थसारथये नमः ॥१४७॥


नमोऽस्तु भीष्मभीष्माय प्रह्लादाह्लादकाय च ।

परःसहस्त्रपत्नीभिः सेविताय जितात्मने ॥१४८॥


क्वायं क्षुद्रमतिर्दासः क्व स्वामी गुणवारिधिः ।

मुहुर्मुहुर्निमग्नं मां क्षमस्व करुणानिधे ॥१४९॥


शुद्धयति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते ।

वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥१५०॥


यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे ।

प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥१५१॥


स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।

प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ॥१५२॥


स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् ।

विविधोपचारकरणैर्हरिदासैः सङगमः शश्वत् ॥१५३॥


कृष्णकथासंश्रवणे महोत्सवः सत्यवादश्च ।

परयुवतौ द्रविणे वा परापवादे पराङ्‌मुखता ॥१५४॥


ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।

यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता ॥१५५॥


एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना ।

समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति ॥१५६॥


स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ ।

मानसपूजाभ्यासो विजननिवासेऽपितात्पर्यम् ॥१५७॥


सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् ।

अद्रोहो भूतगणे ततस्तु भुतानुकम्पा स्यात् ॥१५८॥


प्रमितयदृच्छालाभे सन्तुष्टिर्दारपुत्रादौ ।

ममताशून्यत्वमतो निरहङकारत्वमक्रोधः ॥१५९॥


मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता ।

सुखदुःखशीतलोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् ॥१६०॥


निद्राहारविहारेष्वनादरः सङगराहित्यम् ।

वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः ॥१६१॥


केनापि गीयमाने हरिगीते वेणुनादे वा ।

आनन्दाविर्भावो युगपत्स्याद्‌धृष्टसात्त्विकोद्रेकः ॥१६२॥


तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।

स्थिरतां याते तस्मिन् याति मदोन्मत्तदन्तिदशाम् ॥१६३॥


जन्तुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः ।

एतादृशी दशा चेत्तदैव हरिदासवर्यः स्यात् ॥१६४॥


यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये ।

कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥१६५॥


तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्‍वम् ।

पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङगम् ॥१६६॥


आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् ।

मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥१६७॥


वलयाङगुलीयकाद्यानुज्ज्वलयन्तं स्वलङकारान् ।

गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥१६८॥


गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि ।

भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥१६९॥


मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् ।

मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥१७०॥


सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः ।

सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥१७१॥


कन्दर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् ।

त्यक्‍त्वा कमन्यविषयं नेत्रयुगं द्रष्‍टुमुत्सहते ॥१७२॥


पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्‍त्वा ।

श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं वहति ॥१७३॥


दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके ।

क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥१७४॥


भूतेष्वन्तर्यामी ज्ञानमयः सच्चिदानन्दः ।

प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥१७५॥


साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्विम्बम् ।

विश्‍वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥१७६॥


यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः ।

सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः ॥१७७॥


ब्रह्माण्डानि बहूनि पङकजभवान् प्रत्यण्डमत्यद्भुतान्

गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः ।

शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात्

कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा ॥१७८॥


कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः

सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ।

प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि

निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः ॥१७९॥


नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता-

मौत्कण्ठयप्रबलप्रभञ्जनभरैराकर्षितो वर्षति ।

विज्ञानामृतमद्भुतं निजवचोधाराभिरारादिदं

चेतश्चातक चेन्न वाञ्छसि मृषा क्रान्तोऽसि सुप्तोऽसि किम् ॥१८०॥


चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं

तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।

विश्रान्तिर्हितमप्यहो क्व नु तयोर्मध्ये तदालोच्यतां

युक्‍त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम ॥१८१॥


पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धनं

भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया ।

नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ

सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् ॥१८२॥


काम्योपासनयार्थयन्त्यनुदिनं केचित्फलं स्वेप्सितं

केचित्स्वर्गमथापवर्गमपरे योगादियज्ञादिभिः ।

अस्माकं यदुनन्दनाङ्‌घ्रियुगलध्यानावधानार्थिनां

किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥१८३॥


आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः ।

लोहमपि चुम्बकाश्मा संमुखमात्रं जडं यद्वत् ॥१८४॥


अयमुत्तमोऽयमधमो जात्या रुपेण संपदा वयसा ।

श्‍लाघ्योऽश्‍लाघ्यो वेत्‍थं न वेत्ति भगवाननुग्रहावसरे ॥१८५॥


अन्तःस्वभावभोक्ता ततोऽन्तरात्मा महामेघः ।

खदिरश्चम्पक इव वा प्रवर्षणं किं विचारयति ॥१८६॥


यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ।

भक्ताः परमानन्दे रमन्ति सदयावलोकेन ॥१८७॥


सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् ।

केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥१८८॥


यद्यपि गगनं शून्यं तथापि जलदामृतांशुरुपेण ।

चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् ॥१८९॥


तद्वद्रजतां पुंसां दृग्वाङ्‌मनसामगोचरोऽपि हरिः ।

कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन ॥१९०॥